एकदा कोऽपि मयूरः बकं दृष्ट्वा आत्मनः कलापभारम् उद्यम्य तं बकं क्षुद्रवत् मत्वा जातरूप¬कल्पानां स्वस्य पिञ्छानां शोभां तस्मै दर्शयति स्म। तस्य दर्पं शामयितुं बकः तं वदति स्म– “रे, यदि सुन्दरपिञ्छान्येव महत्त्वम् आनयन्ति तर्हि मयूराणां जातिः श्रेष्ठा। परन्तु अहमिदं मन्ये यत् बालकानां क्रीडनकं भूत्वा भूमौ प्रसर्पणापेक्षया अन्तरालगमने सामर्थ्यम् अधिकं महत्त्वं यच्छति।” इति॥
नीतिः– न कोऽपि सर्वैः गुणैः उपेतः भवति॥
-----------------------------
विमर्शः—
लोके अयं स्वभावः द्विवधो दृश्यते। मयूरसदृशाः सहजसुन्दराः प्रतिभाशालिनः स्वभावसरलाः भवेयुः। परन्तु यदि प्रदर्शनशीलाः, तर्हि अन्यान् पीडयन्ति। तत्र बकस्य समाधानं सुन्दरमेव। अत्र बकः स्वस्य अवमाननेन दुःखं नानुभवति। प्रत्युत मयूरस्येव न्यूनतां प्रदर्श्य तस्य गर्वं भञ्जयति। एतद्विधबकसदृशाः कोमलहृदयाः, सत्स्वभावकाः च।
पुनः किन्तु यदि बकसदृशाः दुष्टाः, तद्विधानां मयूराणां सहजसद्गुणान् दृष्ट्वा ईर्ष्यया तान् पीडयितुं तोदितुं वा एवं कथयन्ति, तर्हि नैतत् युक्तम्। मयूरस्य सौन्दर्येण बकमनसि खेदानुभवः अनावश्यकः।
तत्र अनुभवशालिनः एव जानीयुः बकानां दुरुद्देश्यम्, अथवा मयूराणामिति।

शब्दार्थाः—
कलापभारम् = पिञ्छानां गुच्छं
उद्यम्य = उपरि उत्थाप्य
जातरूप¬कल्पानां = स्वर्णसदृशानां, सुवर्णसमानानां
दर्पं शामयितुं = गर्वं भञ्जयितुं
क्रीडनकं = क्रीडावस्तु, खेलनाय साधनं
प्रसर्पणापेक्षया = सर्वासु दिक्षु प्रसारणात् वरं,
अन्तरालगमने = आकाशे गमनं

प्रश्नाः—
१. मयूरः बकं किममन्यत?
२. मयूरः बकं किमदर्शयत्?
३. मयूराणां जातिः कदा श्रेष्ठा?
४. अधिकं महत्त्वं किं यच्छति?
५. अस्याः कथायाः नीतिः का?
१. मयूरः बकं किममन्यत?
२. मयूरः बकं किमदर्शयत्?
३. मयूराणां जातिः कदा श्रेष्ठा?
४. अधिकं महत्त्वं किं यच्छति?
५. अस्याः कथायाः नीतिः का?
-----------------------------
७. बकुले और मयूर की कथा
एक बार एक मयूर बकुले को देखकर अपने पङ्खों को फैलाकर उस बकुले को तुच्छ मानकर अपनी स्वर्ण के समान पङ्खों की शोभा को उसे दिखाने लगा। उसके अहङ्कार को शांत करने के लिए उस बक ने उससे (मयूर) से कहा- "अरे! सुन्दर पङ्ख ही महानता लाते, तो मयूरों की जाति श्रेष्ठ है। परन्तु मैं यह मानता हूँ कि- बालकों का खिलौना बनकर भूमि पर फेंकेजाने की अपेक्षा आकाश में उड़ने का सामर्थ्य अधिक महत्व प्रदान करता है॥
नीतिः- कोई भी सर्वगुणसम्पन्न नहीं होता है॥

7. నెమలి, కొంగ కథ
ఒకసారి ఒక నెమలి కొంగను చూసి, తన పింఛాన్ని తెరిచి, ఆ కొంగను పనికిరానిదానిగా భావించి, బంగారంలా మెరిసిపోతున్న తన అందమైన పింఛాల శోభను దాని ఎదుట ప్రదర్శించింది. దాని దర్పం అణచటానికి కొంగ ఇట్లా అంది- “ఒరే, అందమైన పింఛమే గొప్పతనాన్ని ఇస్తుందంటే నెమళ్ళ జాతి గొప్పదే. కానీ నాకేమి అనిపిస్తుందంటే బాలులకు ఆటబొమ్మగా అయ్యి అన్ని దిశలా వ్యాపించే కన్నా ఆకాశంలోకి పోవటమే ఎక్కువ గొప్పతనాన్ని ఇస్తుంది.”
నీతి- ఎవ్వరూ అన్ని గుణాలు కలిగి ఉండరు.

Story 7
The story of the crane and the peacock
Once a peacock saw a crane and thinking that crane was very inferior to him, he opened his tail showing, all the gold-like beauty of his tail. In order to bring down his pride, the crane said to him- “O, if beautiful plumage (tail) brings greatness, then the peacock’s species is great; but what I think is that, instead of the tail becoming a playing object in the hands of kids, and spreading in all directions, going into the sky gives it a greater importance.
Moral-- No one is all virtues inclusive.

सुंदर कथा
ReplyDeleteसाधुकथनम् |
ReplyDelete