तेलुगुलिप्यां मुद्रितः ग्रन्थोऽयं संस्कृते लघुकथानाम् अत्युत्तमः सङ्ग्रहः। सङ्क्षिप्ततया रचिताः कथा एताः बालानामत्यन्तमुपयोगाय सन्ति। एताः कथाः विविधैः पुस्तकैः स्वीकृताः, सरलभाषायां लेखकेन कल्पिताश्च। प्रारम्भे लघुप्रमाणकाः, शनैः शनैः बृहत्यः च कथाः कल्पिताः। दीर्घसमासाः त्यक्ताः, विसन्धिता एव आचरिता। प्रारम्भिकाणां सौकर्यार्थमेवं कृतं लेखकेनेति तदीयोपोद्घातेन ज्ञायते। कथासु पर्यायपदानामुपयोगः मह्यमत्यन्तमरोच। प्रारम्भकथायां यथा कुक्कुरः, शुनकः भषकः इति एकस्यैव त्रीणि पदानि प्रयुक्तानि। अनेन अनासक्तिनिवारणं भवति, पदज्ञानमपि वर्धेत।
अत्र सङ्घटनैः, पात्राणां सम्भाषण-माध्यमेन च नीतिः, युक्तयः, विवेकः, धर्मः, सामाजिकतेत्यादीनि मूल्यानि सुष्टु ज्ञापितानि। वास्तवतायाः चित्रणं बहुधा प्रशंसार्हम्। मानवजीवनोपयोगिनः बहवः विषयाः अस्मिन् सरलायां भाषायां सङ्गृहीताः। पठनेन व्यवहारविज्ञानेन सह, सम्भाषणकौशलमपि वर्धेत। भाषाज्ञानं तु सहजमेव जायेत।
अस्य सङ्ग्रहस्य आङ्ग्ले तेलुगौ चानुवादः मया कृतः। यथाशक्ति संस्कृतवाक्यम् आश्रित्यैव तेलुगौ आङ्ग्ले च वाक्यं कल्पितम्। विमर्शरूपेण यत्किञ्चित् कथां पठित्वा मम मनसि भाति स्म तत् सर्वं विलिख्य स्थापितमत्र। (तस्य अनुवादः न दत्तः। कार्यभारात्)
हिन्द्यनुवादनं तु मदीया संस्कृतभगिनी आयुष्मती कामिनी सोनी कृतवती। ब्लाग्-उपरि आरोपितुं झटिति अनुमतिं दत्तवत्यै तस्यै बहवः धन्यवादाः।
शिक्षकाणामुपयोगाय छात्रेभ्यः बोधनाय च शिक्षणसामग्रीरूपेण कठिन-शब्दानामर्थाः, प्रश्नाः च मया निर्मिताः। अस्य पठनं कृत्वा अभ्यासार्थं प्रश्नानां समाधानानि कुर्वन्तु। अन्यभारतीयभाषासु अनुवादनमपि शक्यते। दत्तान् अनुवादान् उपयुज्य शब्दार्थान् अन्यभाषासु कर्तुमपि शक्यते। प्रयासोयं उपयोगाय भवेदिति आशासे।
पुस्तकस्य परिचयः--
नाम-- अभिनवबालनीतिकथासप्ततिः
ग्रन्थकर्ता-- न. स्वामिनाथशास्त्री
मुद्रणम्-- आन्ध्र-ग्रन्थालय-मुद्राक्षर-शाला, विजयवाडा
वत्सरः—1923

मूलग्रन्थ-प्राप्तिस्थानम् --
https://archive.org/details/in.ernet.dli.2015.333058
--------------------------
https://archive.org/details/in.ernet.dli.2015.333058
--------------------------
This book which is
published in Telugu script, is a great collection of very short stories. These,
which are composed very briefly, are useful for children. These have been taken
from different books and rewritten by the writer. They are smaller in size in the
beginning and larger, as the stories progress. Long compounds are avoided, and
sandhis are not employed. This is done so by the writer, for the convenience of
the beginners, as he mentions in the introduction of his book. I really liked
the usage of synonyms in the stories. In the very first story, he uses three different words for a dog- कुक्कुरः, शुनकः भषकः। This removes monotony
and helps in improving the vocabulary.
Morals,
tricks, wisdom, dharma, sociality etc. are very well expressed and explained through
the incidents and the characters in these stories. The portraying of reality is
praiseworthy. Many things which are useful for human life are well conceived
through a simple language. Along with the practical worldly knowledge, conversing skills also get
improved. Language is, however, naturally improved.
The
English and Telugu translation is done by me. As far as possible, the Telugu
and English sentences are in accordance with Sanskrit sentence. (=The pattern
is retained). I have written the विमर्शः based upon whatever
is felt as I read the story. (But its translation is not given for fear of additional
pressure).
The
Hindi translation is done by Ms. Kamini Soni. Many Thanks and blessings to her,
that she immediately consented for using her work on the blog.
I
added sections like, meanings for the tough words, and questions for the
convenience and utility of the teachers, to use these as a learning module,
while explaining to students. Please read the stories and try to write answers
for the questions, for practice. One can even translate into other Indian
languages as well. Using the translation, one can also add word meanings etc.
in other Indian languages. I hope this effort will be of some use.
Detail of the book-
Name-- अभिनवबालनीतिकथासप्ततिः
Author-- न. स्वामिनाथशास्त्री
Publisher-- आन्ध्र-ग्रन्थालय-मुद्राक्षर-शाला, विजयवाडा
Year-- 1923
Source link of the book on the net--
No comments:
Post a Comment